हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता  
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Sri Lakshmana Kavacham – श्री लक्ष्मण कवचम्


अगस्त्य उवाच ।
सौमित्रिं रघुनायकस्य चरणद्वन्द्वेक्षणं श्यामलं
बिभ्रन्तं स्वकरेण रामशिरसि च्छत्रं विचित्राम्बरम् ।
बिभ्रन्तं रघुनायकस्य सुमहत्कोदण्डबाणासने
तं वन्दे कमलेक्षणं जनकजावाक्ये सदा तत्परम् ॥ १ ॥

ओं अस्य श्रीलक्ष्मणकवचमन्त्रस्य अगस्त्य ऋषिः अनुष्टुप् छन्दः श्रीलक्ष्मणो देवता शेष इति बीजं सुमित्रानन्दन इति शक्तिः रामानुज इति कीलकं रामदास इत्यस्त्रं रघुवंशज इति कवचं सौमित्रिरिति मन्त्रः श्रीलक्ष्मणप्रीत्यर्थं सकलमनोऽभिलषितसिद्ध्यर्थं जपे विनियोगः ।

अथ करन्यासः ।
ओं लक्ष्मणाय अङ्गुष्ठाभ्यां नमः ।
ओं शेषाय तर्जनीभ्यां नमः ।
ओं सुमित्रानन्दनाय मध्यमाभ्यां नमः ।
ओं रामानुजाय अनामिकाभ्यां नमः ।
ओं रामदासाय कनिष्ठिकाभ्यां नमः ।
ओं रघुवंशजाय करतलकरपृष्ठाभ्यां नमः ।

अथ अङ्गन्यासः ।
ओं लक्ष्मणाय हृदयाय नमः ।
ओं शेषाय शिरसे स्वाहा ।
ओं सुमित्रानन्दनाय शिखायै वषट् ।
ओं रामानुजाय कवचाय हुम् ।
ओं रामदासाय नेत्रत्रयाय वौषट् ।
ओं रघुवंशजाय अस्त्राय फट् ।
ओं सौमित्रये इति दिग्बन्धः ।

अथ ध्यानम् ।
रामपृष्ठस्थितं रम्यं रत्नकुण्डलधारिणम् ।
नीलोत्पलदलश्यामं रत्नकङ्कणमण्डितम् ॥ १ ॥

रामस्य मस्तके दिव्यं बिभ्रन्तं छत्रमुत्तमम् ।
वरपीताम्बरधरं मुकुटे नातिशोभितम् ॥ २ ॥

तूणीरं कार्मुकं चापि बिभ्रन्तं च स्मिताननम् ।
रत्नमालाधरं दिव्यं पुष्पमालाविराजितम् ॥ ३ ॥

एवं ध्यात्वा लक्ष्मणं च राघवन्यस्तलोचनम् ।
कवचं जपनीयं हि ततो भक्त्यात्र मानवैः ॥ ४ ॥

अथ कवचम् ।
लक्ष्मणः पातु मे पूर्वे दक्षिणे राघवानुजः ।
प्रतीच्यां पातु सौमित्रिः पातूदीच्यां रघूत्तमः ॥ ५ ॥

अधः पातु महावीरश्चोर्ध्वं पातु नृपात्मजः ।
मध्ये पातु रामदासः सर्वतः सत्यपालकः ॥ ६ ॥

स्मिताननः शिरः पातु भालं पातूर्मिलाधवः ।
भ्रुवोर्मध्ये धनुर्धारी सुमित्रानन्दनोऽक्षिणी ॥ ७ ॥

कपोले राममन्त्री च सर्वदा पातु वै मम ।
कर्णमूले सदा पातु कबन्धभुजखण्डनः ॥ ८ ॥

नासाग्रं मे सदा पातु सुमित्रानन्दवर्धनः ।
रामन्यस्तेक्षणः पातु सदा मेऽत्र मुखं भुवि ॥ ९ ॥

सीतावाक्यकरः पातु मम वाणीं सदाऽत्र हि ।
सौम्यरूपः पातु जिह्वामनन्तः पातु मे द्विजान् ॥ १० ॥

चिबुकं पातु रक्षोघ्नः कण्ठं पात्वसुरार्दनः ।
स्कन्धौ पातु जितारातिर्भुजौ पङ्कजलोचनः ॥ ११ ॥

करौ कङ्कणधारी च नखान् रक्तनखोऽवतु ।
कुक्षिं पातु विनिद्रो मे वक्षः पातु जितेन्द्रियः ॥ १२ ॥

पार्श्वे राघवपृष्ठस्थः पृष्ठदेशं मनोरमः ।
नाभिं गम्भीरनाभिस्तु कटिं च रुक्ममेखलः ॥ १३ ॥

गुह्यं पातु सहस्रास्यः पातु लिङ्गं हरिप्रियः ।
ऊरू पातु विष्णुतुल्यः सुमुखोऽवतु जानुनी ॥ १४ ॥

नागेन्द्रः पातु मे जङ्घे गुल्फौ नूपुरवान्मम ।
पादावङ्गदतातोऽव्यात् पात्वङ्गानि सुलोचनः ॥ १५ ॥

चित्रकेतुपिता पातु मम पादाङ्गुलीः सदा ।८
रोमाणि मे सदा पातु रविवंशसमुद्भवः ॥ १६ ॥

दशरथसुतः पातु निशायां मम सादरम् ।
भूगोलधारी मां पातु दिवसे दिवसे सदा ॥ १७ ॥

सर्वकालेषु मामिन्द्रजिद्धन्ताऽवतु सर्वदा ।
एवं सौमित्रिकवचं सुतीक्ष्ण कथितं मया ॥ १८ ॥

इदं प्रातः समुत्थाय ये पठन्त्यत्र मानवाः ।
ते धन्या मानवा लोके तेषां च सफलो भवः ॥ १९ ॥

सौमित्रेः कवचस्यास्य पठनान्निश्चयेन हि ।
पुत्रार्थी लभते पुत्रान् धनार्थी धनमाप्नुयात् ॥ २० ॥

पत्नीकामो लभेत्पत्नीं गोधनार्थी तु गोधनम् ।
धान्यार्थी प्राप्नुयाद्धान्यं राज्यार्थी राज्यमाप्नुयात् ॥ २१ ॥

पठितं रामकवचं सौमित्रिकवचं विना ।
घृतेन हीनं नैवेद्यं तेन दत्तं न संशयः ॥ २२ ॥

केवलं रामकवचं पठितं मानवैर्यदि ।
तत्पाठेन तु सन्तुष्टो न भवेद्रघुनन्दनः ॥ २३ ॥

अतः प्रयत्नतश्चेदं सौमित्रिकवचं नरैः ।
पठनीयं सर्वदैव सर्ववाञ्छितदायकम् ॥ २४ ॥

इति श्रीमदानन्दरामायणे सुतीक्ष्णागस्त्यसंवादे श्रीलक्ष्मणकवचम् ।


Sri Raama Stotras – श्री राम स्तोत्राणि

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.